|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.114. अध्यायः 114
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सभायां दुष्टदुर्भाषणे तत्तितिक्षाया गुणत्वप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-114-0x(5652)(69245)
विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत।
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम्॥ 12-114-1(69246)
भीष्म उवाच। 12-114-2x(5653)
श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते।
सदा सचेताः सहते नरस्येहाल्पचेतसः॥ 12-114-2(69247)
आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति।
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति॥ 12-114-3(69248)
गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम्।
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते॥ 12-114-4(69249)
इति संश्लाघते नित्यं तेन पापेन कर्मणा।
इदमुक्तो मया कश्चित्सर्वतो जनसंसदि।
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते॥ 12-114-5(69250)
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः।
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः॥ 12-114-6(69251)
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा॥ 12-114-7(69252)
प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति।
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम्॥ 12-114-8(69253)
यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा।
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः॥ 12-114-9(69254)
निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव॥ 12-114-10(69255)
यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किंचन।
वाचं तेन न संदध्याच्छुचिः संश्लिष्टकर्मणा॥ 12-114-11(69256)
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः।
स मानवः श्ववल्लोके नष्टलोकपरायणः॥ 12-114-12(69257)
तादृग्दिनशतं चापि यद्ददाति जुहोति च।
परोक्षेणापवादेन तं नाशयति तत्क्षणात्॥ 12-114-13(69258)
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्।
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा॥ 12-114-14(69259)
परिवादं ब्रुवाणो हि दुरात्मा वै महाजने।
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम्॥ 12-114-15(69260)
तं स्वकर्मणि कुर्वाणं प्रतिकर्तुं य इच्छति।
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति॥ 12-114-16(69261)
मनुष्यसालावृकमप्रशान्तं
जनापवादे सततं निविष्टम्।
मातङ्गमुन्मत्तमिवोन्नदन्तं
त्यजेत तं श्वानमिवातिरौद्रम्॥ 12-114-17(69262)
अनार्यजुष्टे पथि वर्तमानं
दमादपेतं विनयाच्च पापम्।
अरिव्रतं नित्यमभूतिकामं
धिगस्तु तं पापमतिं मनुष्यम्॥ 12-114-18(69263)
प्रत्युच्यमानस्त्वथ भूय एव
निशाम्य माभूस्त्वमथार्तरूपः।
उच्चस्य नीचेन हि संप्रयोगं
विगर्हयन्ति स्थिरबुद्धयो ये॥ 12-114-19(69264)
क्रुद्धो दशेद्वाऽपि च ताडयेद्वा
स पांसुभिर्वा विकिरेत्तुषैर्वा।
विवृत्य दन्तांश्च विभीषयेद्वा
सिद्धं हि मूढे कुपिते नृशंसे॥ 12-114-20(69265)
विगर्हणां नाऽपि दुरात्मना कृतां
सहेत यः संसदि दुर्जनानाम्।
पठेदिदं चापि निदर्शनं सदा
न वाङ्भयं स लभति किंचिदप्रियम्॥ ॥ 12-114-21(69266)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥ 114॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-114-1 मूढश्चासौ प्रगल्भश्च तेन॥ 12-114-2 सहते दुरुक्तम्॥ 12-114-3 मर्षी तितिक्षुः॥ 12-114-4 वाश्यमानं रटन्तम्॥ 12-114-9 यथा वाचा हतो न हन्यते एवं वाचा दूषितो न दुष्यतीत्यर्थः॥ 12-114-10 स एवं वदन्वृत्तेन क्रियया चेष्टया वागादिव्यापारेण च लिङ्गेन निषेकं स्वमातरि रेतः सेकं परस्य परेण पितुरन्येन कृतमित्याचष्टे व्यक्तं कथयति। कौपीनं गुह्यप्रदेशं संदर्शयन्निव नृत्यं कुर्वन्मयूरो यथा श्लाघते सम्यङ्नृत्यामीति मन्यते नतु मम गुह्यं लोकाः पश्यन्तीति त्रपते एवं स्वलोपि मया स महानमुकसभायां दुरुक्तमुक्त इति श्लाघते नत्वनेन मम मातुर्दोषः स्पष्टीक्रियते मयैवेति न त्रपते इत्यर्थः॥ 12-114-11 मयूर इव कालीनं इति थ. द. पाठः। संश्लिष्टजन्मना इति ट.थ. द. पाठः॥ 12-114-13 तादृक्पुमान्॥ 12-114-14 सारमेयामिषं शुनोमांसम्॥ 12-114-15 दोषान् जारजत्वादीन्॥ 12-114-16 भस्मकूटे भस्मराशौ स्वर इवाबुद्धिः रजसि दुःखे निमज्जति॥ 12-114-17 सालावृकं श्वानमेव मनुष्यत्वेन लोके गृहीतमित्यर्थः॥ 12-114-20 कुद्धो दशार्धेन हि ताडयेद्वा इति झ. पाठः। तत्र दशार्धेन संवृताङ्गुलिपञ्चकेन पाणिनेत्यर्थः। इदं सर्वं कुपितमूढे सिद्धमेव॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|